|
|
 |
 |
|
|
६ भीष्मपर्व.jpg)
॥ श्रीः ॥
6.49. अध्यायः 049
Mahabharata - Bhishma Parva - Chapter Topics
शङ्खयुद्धवर्णनम् ॥ 1 ॥

Mahabharata - Bhishma Parva - Chapter Text
धृतराष्ट्र उवाच। 6-49-0x(4111)(40643)
( श्वेते सेनापतौ तात संग्रमे निहते परैः।
किमकुर्वन्महेष्वासाः पाञ्चालाः पाण्डवैः सह ॥ 6-49-1(40644)
सेनापतिं समाकर्ण्य श्वेतं युधि निपातितम् ।
तदर्थं यततां चापि परेषां प्रपलायिनाम् ॥ 6-49-2(40645)
मनः प्रीणाति मे वाक्यं जयं संजय श्रृण्वतः।
प्रत्युपायं चिन्तयन्तः सञ्जनाः प्रस्रवन्ति मे ॥ 6-49-3(40646)
स हि वीरोऽनुरक्तश्च वृद्धः कुरुपतिस्तदा ।
कृतं वैरं सदा तेन पितुः पुत्रेण धीमता ॥ 6-49-4(40647)
तस्योद्वेगभयाच्चापि संश्रितः पाण्डवान्पुरा ।
सर्वं बलं परित्यज्य दुर्गं संश्रित्य तिष्ठति ॥ 6-49-5(40648)
पाण्डवानां प्रतापेन दुर्गं देशं निवेश्य च ।
सपत्नान्सततं बाधन्नार्यवृत्तिमनुष्ठितः ॥ 6-49-6(40649)
आश्चर्यं वै सदा तेषां पुरा राज्ञां सुदुर्मतिः।
ततो युधिष्ठिरे भक्तः कथं सञ्जय सूदितः ॥) 6-49-7(40650)
प्रक्षिप्तः संमतः क्षुद्रः पुत्रो मे पुरुषाधमः।
न युद्धं रोचयेद्भीष्मो न चाचार्यः कथंचन ॥ 6-49-8(40651)
न कृपो न च गान्धारी नाहं सञ्जय रोचये ।
न वासुदेवो वार्ष्णेयो धर्मराजश्च पाण्डवः ॥ 6-49-9(40652)
न भीमो नार्जुनश्चैव न यमौ पुरुषर्षभौ ।
वार्यमाणो मया नित्यं गान्धार्या विदुरेण च ॥ 6-49-10(40653)
जामदग्न्येन रामेण व्यासेन च महात्मना ।
दुर्योधनो युध्यमानो नित्यमेव हि सञ्जय ॥ 6-49-11(40654)
कर्णस्य मतमास्थाय सौबलस्य च पापकृत् ।
दुःशासनस्य च तथा पाण्डवान्नान्वचिन्तयत् ॥ 6-49-12(40655)
तस्याहं व्यसनं घोरं मन्ये प्राप्तं तु सञ्जय ।
श्वेतस्य च विनाशेन भीष्मस्य विजयेन च ॥ 6-49-13(40656)
संक्रुद्धः कृष्णसहितः पार्थः किमकरोद्युधि ।
अर्जुनाद्धि भयं भूयस्तन्मे तात न शाम्यति ॥ 6-49-14(40657)
स हि शूरश्च कौन्तेयः क्षिप्रकारी धनंजयः ।
मन्ये शरैः शरीराणि शत्रूणां प्रमथिष्यति ॥ 6-49-15(40658)
ऐन्द्रिमिन्द्रानुजसमं महेन्द्रसदृशं बले ।
अमोघक्रोधसंकल्पं दृष्ट्वा वः किमभून्मनः ॥ 6-49-16(40659)
तथैव वेदविच्छूरो ज्वलनार्कसमद्युतिः ।
इन्द्रास्त्रविदमेयात्मा प्रपतन्समितिंजयः ॥ 6-49-17(40660)
वज्रसंस्पर्शरूपाणामस्त्राणां च प्रयोजकः ।
सखङ्गाक्षेपहस्तस्तु घोषं चक्रे महारथः ॥ 6-49-18(40661)
स सञ्जय महाप्राज्ञो द्रुपदस्यात्मजो बली ।
धृष्टद्युम्नः किमकरोच्छ्वेते युधि निपातिते ॥ 6-49-19(40662)
पुरा चैवापराधेन वधेन च चमूपतेः ।
मन्ये मनः प्रजज्वाल पाण्डवानां महात्मनाम् ॥ 6-49-20(40663)
तेषां क्रोधं चिन्तयंस्तु अहःसु च निशासु च ।
न शान्तिमधिगच्छामि दुर्योदनकृतेन हि ।
कथं चाभून्महायुद्धं सर्वमाचक्ष्व सञ्जय ॥ 6-49-21(40664)
सञ्जय उवाच। 6-49-22x(4112)
श्रृणु राजन्स्थिरो भूत्वा तवापनयनो महान् ।
न च दुर्योधने दोषमिमामाधातुमर्हसि ॥ 6-49-22(40665)
गतोदके सेतुबन्धो यादृक्तादृङ्भतिस्तव।
संदीप्ते भवने यद्वत्कूपस्य खननं तथा ॥ 6-49-23(40666)
गतपूर्वाह्णभूयिष्ठे तस्मिन्नहनि दारुणे ।
तावकानां परेषां च पुनर्युद्धमवर्तत ॥ 6-49-24(40667)
श्वेतं तु निहतं दृष्ट्वा विराटस्य चमूपतिम् ।
कृतवर्मणा च सहितं दृष्ट्वा शल्यमवस्थितम् ॥ 6-49-25(40668)
शङ्खः क्रोधात्प्रजज्वाल हविषा हव्यवाडिव ।
स विस्फार्य महच्चापं शक्रचापोपमं बली ॥ 6-49-26(40669)
अभ्यधावज्जिघांसन्वै शल्यं मद्राधिपं युधि ।
महता रथसङ्घेन समन्तात्परिरक्षितः ॥ 6-49-27(40670)
सृजन्बाणमयं वर्षं प्रायाच्छल्यरथं प्रति।
तमापतन्तं संप्रेक्ष्य मत्तवारणविक्रमम् ॥ 6-49-28(40671)
तावकानां रथाः सप्त समन्तात्पर्यवारयन् ।
मद्रराजं परीप्सन्तो मृत्योर्दंष्ट्रान्तरं गतम् ॥ 6-49-29(40672)
बृहद्बलश्च कौसल्यो जयत्सेनश्च मागधः।
तथा रुक्मरथो राजन्पुत्रः शल्यस्य मानितः ॥ 6-49-30(40673)
विन्दानुविन्दावावन्त्यौ काम्भोजश्च सुदक्षिणःक ।
बृहत्क्षत्रस्य दायादः सैन्धवश्च जयद्रथः ॥ 6-49-31(40674)
नानाधातुविचित्राणि कार्मुकाणि महात्मनाम् ।
विस्फारितान्यदृश्यन्त तोयदेष्विव विद्युतः ॥ 6-49-32(40675)
ते तु बाणमयं वर्षं शङ्खमूर्ध्निं न्यपातयन् ।
निदाघान्तेऽनिलोद्धृता मेघा इव नगे जलम् ॥ 6-49-33(40676)
ततः क्रुद्धो महेष्वासः सप्तभल्लैः सुतेजनैः ।
धनूंषि तेषामाच्छिद्य ननर्द पृतनापतिः ॥ 6-49-34(40677)
ततो भीष्मो महाबाहुर्विनद्य जलदो यथा।
तालमात्रं धनुर्गृह्य शङ्खमभ्यद्रवद्रणे ॥ 6-49-35(40678)
तमुद्यन्तमुदीक्ष्याथ महेष्वासं महाबलम् ।
संत्रस्ता पाण्डवी सेना वातवेगहतेव नौः ॥ 6-49-36(40679)
ततोऽर्जुनः संत्वरितः शङ्खस्यासीत्पुरःसरः ।
भीष्माद्रक्ष्योऽयमद्येति ततो युद्धमवर्तत ॥ 6-49-37(40680)
हाहाकारो महानासीद्योधानां युधि युध्यताम् ।
तेजस्तेजसि संपृक्तमित्येवं विस्मयं ययुः ॥ 6-49-38(40681)
अथ शल्यो गदापाणिरवतीर्य महारथात् ।
शङ्खस्य चतुरो वाहानहनद्भरतर्षभ ॥ 6-49-39(40682)
स हताश्वाद्रथात्तूर्णं खङ्गमादाय विद्रुतः ।
बीभत्सोश्च रथं प्राप्य पुनः शान्तिमविन्दत ॥ 6-49-40(40683)
ततो भीष्मरथात्तूर्णमुत्पतन्ति पतत्रिणः ।
यैरन्तरीक्षं भूमिश्च सर्वतः समवस्तृता ॥ 6-49-41(40684)
पञ्चालानथ मत्स्यांश्च केकयांश्च प्रभद्रकान् ।
भीष्मः प्रहरतां श्रेष्ठः पातयामास पत्रिभिः ॥ 6-49-42(40685)
उत्सृज्य समरे राजन्पाण्डवं सव्यसाचिनम् ।
अभ्यद्रवत पाञ्चाल्यं द्रुपदं सेनया वृतम् ॥ 6-49-43(40686)
प्रियं संबन्धिनं राजञ्शरानवकिरन्बहून् ।
अग्निनेव प्रदग्धानि वनानि शिशिरात्यये ॥ 6-49-44(40687)
शरदग्धान्यदृश्यन्त सैन्यानि द्रुपदस्य ह।
अत्यतिष्ठद्रणे भीष्मो विधूम इव पावकः ॥ 6-49-45(40688)
मध्यन्दिने यथाऽऽदित्यं तपन्तमिव तेजसा।
न शेकुः पाण्डवेयस्य योधा भीष्मं निरीक्षितुम् ॥ 6-49-46(40689)
वीक्षांचक्रुः समंतात्ते पाण्डवा भयपीडिताः ।
त्रातारं नाध्यगच्छन्त गावः शीतार्दिता इव ॥ 6-49-47(40690)
सा तु यौधिष्ठिरी सेना गाङ्गेयशरपीडिता ।
सिंहेनेव विनिर्भिन्ना शुक्ला गौरिव गोपतेः ॥ 6-49-48(40691)
हते विप्रुद्रुते सैन्ये निरुत्साहे विमर्दिते।
हाहाकारो महानासीत्पाण्डुसैन्येषु भारत ॥ 6-49-49(40692)
ततो भीष्मः शान्तनवो नित्यं मण्डलकार्मुकः ।
मुमोच बाणान्दीप्ताग्रानहीनाशीविषानिव ॥ 6-49-50(40693)
शरैरेकायनीकुर्वन्दिशः सर्वा यतव्रतः।
जघान पाण्डवरथानादिश्यादिश्य भारत ॥ 6-49-51(40694)
ततः सैन्येषु भग्नेषु मथितेषु च सर्वशः ।
प्राप्ते चास्तं दिनकरे न प्राज्ञायत किंचन ॥ 6-49-52(40695)
भीष्मं च समुदीर्यन्तं दृष्ट्वा पार्था महाहवे ।
अवहारमकुर्वन्त सैन्यानां भरतर्षभ ॥ ॥ 6-49-53(40696)
इति श्रीमन्महाभारते भीष्मपर्वणि भीष्मवधपर्वणि प्रथमदिवसयुद्धे एकोनपञ्चाशोऽध्यायः ॥ ॥ इति प्रथमदिवसयुद्धम् ॥
Mahabharata - Bhishma Parva - Chapter Footnotes
6-49-51 एकायनीकुर्वन् एकमार्गाः कुर्वन् ॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|